युद्धनिर्वहणम्

  1. संसुरुवाच - युद्धाभियानेषु यत्र सहस्रं शीघ्ररथाः सहस्रं घनरथा लक्षं जालकवचधारिणः सैनिकाश्च सन्ति येऽर्धसहस्रकिलोमीटर्दूरमपि गन्तुमापूर्तिं धरन्ति। गृहे युद्धरङ्गे चातिथीनामातिथ्यार्थं श्लेषो वर्णलेपनमित्यादिनां लघुवस्तूनामेवं च रथानां कवचानां कृते व्ययार्थं प्रतिदिनं सहस्रशो ग्राममितरजतमावश्यकम्।लक्षस्य सैनिकानां सेनायाः सङ्घटनस्य मूल्यमिदृशमेव
  2.  प्रहरणसमये विजयार्थमधिकसमयोऽपेक्ष्यते चेत् सैनिकानां शस्त्राणी मनोबलं च मन्दानि भवेयुः। पुररोधे बलं न्यूनिभवेत्।
  3. अभियानं दीर्घकालिकं भवति चेद् राष्ट्रसंसाधनानि सङ्घर्षार्थं पर्याप्तानि न स्युः।
  4. अथ यदा शस्त्राणि मनोबलं च मन्दानि भवन्ति बलं न्यूनीभवति धनं व्ययीभवति तदेतरे नायका भवद्वैषम्यस्य लाभं गृहीतुमुत्तिष्ठेयुः। तत्समये कोऽपि यः कियानपि बुद्धिमान् भवेत् स आगामिपरिणामानि वर्जयितुं न शक्नोति।
  5. तस्माद् यद्यपि युद्धे मुर्खतापूर्णातिवेगः कदाचित् श्रूयते तथाप्यतिविलम्बः कदापि न कुशलताया विषयकः।
  6. दीर्घकालिकयुद्धलाभपात्रदेशः कोऽपि नास्ति।
  7. युद्धदुष्टतायाः सम्यक् परिचयो यस्य स एव युद्धानुवर्तनार्थलाभकरविधिं सम्यगवगच्छति।
  8. युद्धविशारदः सहायसेनार्थं प्रतिक्षां न करोति न हि सामग्रीवाहनानि द्विवारं पूरयति।
  9. युद्धसामग्री गृहादानयतां किन्तु शत्रुप्रदेशेऽन्नसामग्र्यन्विष्यताम्। तथा सेनायाः कृते पर्याप्तान्नसामग्री भविष्यति।
  10. राष्ट्रकोषनिर्धनत्वात् सैन्यसम्भरणं दूरत एव भवति। दूरतः सैन्यसम्भरणं प्रजानिर्धनत्वं कारयति।
  11. अपरतः सेनायाः समीपत्वं मूल्यानि वर्धयति। अथाधिकमूल्यानि प्रजावित्तं न्यूनीकरोति।
  12. वित्तन्यूनत्वात् कृषीवलान् तीव्रसमस्या बाधन्ते।
  13. वित्तनाशातद् बलनाशात् प्रजाया गृहानि जीर्णतां प्राप्नुवन्ति। आयस्य त्रयो दशमभागा व्यपगच्छन्ति। 
  14. भग्नानां रथानां शीर्णानां अश्वानां सारसनानां शिरस्त्राणानां धनुषां बाणानां  शूलानां फलकानां 

Comments

Popular posts from this blog

योजनानिर्माणम्