योजनानिर्माणम्

  1. सुन्सुरुवाच - राष्ट्रस्य कृते युद्धकलाया महत्त्वं सर्वोपरि वर्तते।
    1. anivAryAsti rAjyasya kRte yuddhakalaiva hi
    2. evamuvAca prAcInacIne sansuvizAradaH
  2. इयं जीवनमृत्य्वोर् विषयोऽस्ति। सुरक्षाया मार्ग उत वा विनाशस्य। अतएव परामर्शनविषयोऽस्ति यस्यापेक्षा कदापि न करणीया।
  3. तस्माद् युद्धकला पञ्चशश्वत्कारकेषु निर्भरास्ति ये स्वविचारेषु ध्यात्वा करणीया एव यदाङ्गणे परिस्थितीनामाकलयितुं प्रयत्यते।
  4. ते कारकाः सन्ति
    1. नैतिकविधिः 
    2. स्वर्गः 
    3. पृथवी
    4. नायकः 
    5. पद्धति एवं चानुशासनम्
  5. प्रजा शासकस्य पूर्णतयानुकूला क्रियते नैतिकविधिना
  6. विना प्राणभयं तं शासकमनुसर्तुं प्रेरणादायिकास्ति नैतिकविधिः
  7. स्वर्गेण ज्ञायन्ते रात्रि एवं च दिनं शैत्यमेवं चोष्णता काल एवं चर्तवः।
  8. पृथव्यां सन्ति दूरत्वानि लघून्येवं च दीर्घाणि; सुरक्षैवं चासुरक्षा; विस्तृतस्थानान्येवं च सङ्कीर्णमार्गा; मृत्यो एवं च जीवनस्यावसराः।
  9. नायकस्य गुणा विवेकः श्रद्धा वात्सल्यं धैर्यं नियमनिष्ठता च भवितव्याः।
  10. सैन्यवर्गसङ्घटनमधिकारिपदोन्नतिविधानं सैन्यस्यापूर्त्यर्थमार्गसम्भरणं सैन्यव्ययनियन्त्रणं च पद्धति एवं चानुशासनमित्युच्यते।
  11. इमे पञ्चकारकाः सर्वैः सेनाध्यक्षैर् ज्ञातव्याः। यः कोऽपि तान् परिजानाति स विजयं प्राप्नोति। यः कोऽपि तान् न परिजानाति सः पराजयं प्राप्नोति।
  12. अतः स्वविचारे सैन्यपरिस्थितीनामाकलनसमयेऽग्रेलिखितास् तुलनाविषयिनो ध्यात्वा करणीयाः

    1. उभयोर्नृपयोः को नैतिकविधिना परिपालयति?
    2. उभयोर्नायकयोः कः सक्षमतमः?
    3. स्वर्गपृथव्योराधारभूते लाभाः कस्य?
    4. कस्मिन् पक्षेऽनुशासनं दृढतयानुष्ठितम्?
    5. कस्य सेना बलवत्तरा?
    6. कस्मिन् पक्षेऽधिकारिणः सैनिकाश्चाधिकशिक्षिताः?
    7. कस्मिन् सैन्ये प्रतिफलं वा दण्डनं वा नियमेन प्रदीयते?
  13. पूर्वलिखिता विषया विचिन्त्यन्ते चेज् जयं भविष्यति वा पराजयं भविष्यति वेत्यनुमानं कर्तुं शक्यते।
  14. यो नायको मत्सूचनामनुसृत्याचरति स विजयं प्राप्नोति तस्य नायकत्वं निरन्तरं भवतु। यो नायको मत्सूचनां नानुसरति तस्यां क्रियान्वयनं न करोति सः पराजयं प्राप्नोति स अपदस्थः क्रियताम्।
  15. मन्मन्त्रणस्य सदुपयोगमतिरिच्य साधारणनियमानतिक्राम्यान्यासामनुकूलपरिस्थितिनां लाभोऽपि सम्प्राप्यताम्।
  16. परिस्थितीनामनुकूलत्वस्यानुसारि योजनाः परिवर्तन्ताम्।
  17. सर्वाणि युद्धानि वञ्चनायामाधारीभूतानि।
  18. अतः प्रहारशक्यतायां सत्यामप्यशक्तमिव दृश्यतां सैन्ये प्रयुज्यमानेऽप्यप्रयुज्यमानमिव दृश्यतां समीपतायां सत्यामप्यसमीपमिव दृश्यतामसमीपतायां सत्यामपि समीपमिव दृश्यताम्।
  19. प्रलोभनेन शत्रुराकृष्यताम्। व्याजाव्यवस्थया भ्रमन् शत्रुर्नश्यताम्। 
  20. शत्रुः सर्वेषु स्थानेषु सुरक्षितश्चेत् स्वसज्जतावश्यकी। शत्रुर्बलवत्तरश्चेत् वर्ज्यताम्।
  21. प्रतिपक्षः शीघ्रकोपी चेत् कोप्यताम्। व्याजबलहीनतया गर्वी क्रियताम्।
  22. विश्रान्तश्चेन् निर्विश्रान्तः क्रियताम्। तस्य सैन्यं सङ्घटितं चेद् विघटितं क्रियताम्।
  23. शत्रुरसज्जश्चेत् प्रहर्तव्यः। अनपेक्षितस्थाने प्रत्यक्षीभव।
  24. इमे विजयकारिणः सैन्योपायाः पूर्वमेव न प्रकाशितव्याः।
  25. युद्धविजयी सेनापतिः कलनानि बहूनि करोति मन्दिरे यत्र युद्धं भवति। पराजितसेनापतिः पूर्वमेव केवलं कानिचन कलनानि करोति। तथा बहूनि कलनानि विजयमानयति कानिचन कलनानि पराजयम्। तर्हि कलनशून्येन किं भविष्यति। विषयमिमं ध्यात्वा कृत्वा हि को विजेता को नेत्यनुमानं कर्तुं शक्यते।

Comments

Popular posts from this blog

युद्धनिर्वहणम्